मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६८, ऋक् ७

संहिता

बृह॒स्पति॒रम॑त॒ हि त्यदा॑सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत् ।
आ॒ण्डेव॑ भि॒त्त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रिया॒ः पर्व॑तस्य॒ त्मना॑जत् ॥

पदपाठः

बृह॒स्पतिः॑ । अम॑त । हि । त्यत् । आ॒सा॒म् । नाम॑ । स्व॒रीणा॑म् । सद॑ने । गुहा॑ । यत् ।
आ॒ण्डाऽइ॑व । भि॒त्त्वा । श॒कु॒नस्य॑ । गर्भ॑म् । उत् । उ॒स्रियाः॑ । पर्व॑तस्य । त्मना॑ । आ॒ज॒त् ॥

सायणभाष्यम्

बृहस्पतिर्गुहा गुहायां सदने स्थाने स्वरीणां शब्दायमानानामासां गवां त्यत्तत्प्रसिद्धं नाम नामधेयं यद्यदामत हि ज्ञातवान्खलु। मनु अवबोधने। लुङि तनादिभ्यस्तथासोः। पा. २-४-७९। इति सिचो लुक्। तदानीं पर्वतस्यान्तः स्थिता उस्रिया गास्त्मनात्मनैवासहायेन पर्वतं भित्त्वोदाजत्। उदगमयत्। तत्र दृष्टान्तः। आण्डेव यथा शकुनस्य पक्षिण आण्डानि भित्त्वा तत्र स्थितं गर्भमुद्गमयति तद्वत्॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८