मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६८, ऋक् १०

संहिता

हि॒मेव॑ प॒र्णा मु॑षि॒ता वना॑नि॒ बृह॒स्पति॑नाकृपयद्व॒लो गाः ।
अ॒ना॒नु॒कृ॒त्यम॑पु॒नश्च॑कार॒ यात्सूर्या॒मासा॑ मि॒थ उ॒च्चरा॑तः ॥

पदपाठः

हि॒माऽइ॑व । प॒र्णा । मु॒षि॒ता । वना॑नि । बृह॒स्पति॑ना । अ॒कृ॒प॒य॒त् । व॒लः । गाः ।
अ॒न॒नु॒ऽकृ॒त्यम् । अ॒पु॒नरिति॑ । च॒का॒र॒ । यात् । सूर्या॒मासा॑ । मि॒थः । उ॒त्ऽचरा॑तः ॥

सायणभाष्यम्

हिमेव यथा हिमेन पर्णा पर्णानि पद्मपत्राणि मुषिता मुषितानि भवन्ति तद्वद्वलेन वनानि वननीयानि गोधनानि मुषितान्यभूवन्। अथ गवामन्वेषणाय बृहस्पतिनागतेन हेतुना वलोऽकृपयत्। अस्मै ता मुषिता गाः प्रायच्छत्। तत्राननुकृत्यमननुकरणीयमपुनः कर्तव्यं च तत्कर्म चकार। यथा तत्पश्चात्करणीयं न भवति यथा पुनकरणीयं तथाकार्षीदिर्थः। किं तदिति आह। सूर्यामासा सूर्यचन्द्रमसौ मिथः परस्परमहोरात्रयोरुच्चरात उच्चरत इति यात् तच्चकार। यादिति दीर्घश्छान्दसः॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८