मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६८, ऋक् १२

संहिता

इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति ।
बृह॒स्पति॒ः स हि गोभि॒ः सो अश्वै॒ः स वी॒रेभि॒ः स नृभि॑र्नो॒ वयो॑ धात् ॥

पदपाठः

इ॒दम् । अ॒क॒र्म॒ । नमः॑ । अ॒भ्रि॒याय॑ । यः । पू॒र्वीः । अनु॑ । आ॒ऽनोन॑वीति ।
बृह॒स्पतिः॑ । सः । हि । गोभिः॑ । सः । अश्वः॑ । सः । वी॒रेभिः॑ । सः । नृऽभिः॑ । नः॒ । वयः॑ । धा॒त् ॥

सायणभाष्यम्

अभ्रियायभ्रेषु भवायान्तरिक्ष्याय मध्यमाय बृहस्पतय इदमुक्तं नमः स्तोत्रमकर्म। वयमकार्ष्म। यो ब्रुहस्पतिः पूर्वीर्बह्वीरृचोऽन्वनुक्रमेणानोनवीति अत्यर्थमाभिमुख्येन ब्रवीति स ब्रुहस्पतिरेव गोभिरश्वैश्च युक्तं वीरेभिः पुत्रैर्नृभिर्भृत्यादिभिश्च सहितं वयोऽन्नं नोऽस्मभ्यं स्तोतृभ्यो धात्। दधातु। प्रयच्छतु। तच्छब्दावृत्तिरादरार्था॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८