भ॒द्रा अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो॑ वा॒मी प्रणी॑तिः सु॒रणा॒ उपे॑तयः ।
यदीं॑ सुमि॒त्रा विशो॒ अग्र॑ इ॒न्धते॑ घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ॥
भ॒द्राः । अ॒ग्नेः । व॒ध्रि॒ऽअ॒श्वस्य॑ । स॒म्ऽदृशः॑ । वा॒मी । प्रऽनी॑तिः । सु॒ऽरणाः॑ । उप॑ऽइतयः ।
यत् । ई॒म् । सु॒ऽमि॒त्राः । विशः॑ । अग्रे॑ । इ॒न्धते॑ । घृ॒तेन॑ । आऽहु॑तः । ज॒र॒ते॒ । दवि॑द्युतत् ॥
षष्ठेऽनुवाके षोडश सूक्तानि। भद्रा इति द्वादशर्चं प्रथमं सूक्तं वध्र्यश्वपुत्रस्य सुमित्रस्यार्षम् । आदितो द्वे जगत्यावथ दश त्रिष्टुभः। अग्निर्देवता। तथा चानुक्रम्यते। भद्राः सुमित्रो वाध्र्यश्व आग्नेयं द्विजगत्यादीति। गतो विनियोगः॥
अग्नेर्वक्ष्यमानगुणस्य सन्दृशः सन्दृष्टयो वध्र्यश्वस्यैतन्नामकस्य मम। पितुर्भद्राः कल्याणकारिण्य़ो भवन्तु। यद्वा। वध्र्यश्वस्य वध्र्यश्वकुले जातस्याग्नेः सन्दृष्टयो भजनीया भवन्तु। प्रणीतिस्तस्य प्रश्णयनं वामी कल्याणं च भवतु। तथोपेतयो यज्ञं प्रत्युपगतयः सुरणाः शोभनरमणा भवन्तु। सुमित्रा एतन्नामधेया विशोऽमी मनुष्या ईमेनमग्निमग्रे प्रथमं यद्यदेन्धते हविर्भिर्दीपयन्ति तदा घृतेनाहुतो हविर्भिश्च दविद्युतद्भृशं द्योतमानः दधर्तिदर्धर्तीत्यादिना निपातितः। सोऽग्निर्जरते। अस्माभिः स्तूयते॥१॥