मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६९, ऋक् ३

संहिता

यत्ते॒ मनु॒र्यदनी॑कं सुमि॒त्रः स॑मी॒धे अ॑ग्ने॒ तदि॒दं नवी॑यः ।
स रे॒वच्छो॑च॒ स गिरो॑ जुषस्व॒ स वाजं॑ दर्षि॒ स इ॒ह श्रवो॑ धाः ॥

पदपाठः

यत् । ते॒ । मनुः॑ । यत् । अनी॑कम् । सु॒ऽमि॒त्रः । स॒म्ऽई॒धे । अ॒ग्ने॒ । तत् । इ॒दम् । नवी॑यः ।
सः । रे॒वत् । शो॒च॒ । सः । गिरः॑ । जु॒ष॒स्व॒ । सः । वाज॑म् । द॒र्षि॒ । सः । इ॒ह । श्रवः॑ । धाः॒ ॥

सायणभाष्यम्

हे अग्ने ते त्वदीयं यदनीकं रश्मिसङ्घं मनुरेतन्नामको यथा समीधे हविर्भिः सम्यग्दीपयति सुमित्र एतन्नामकोऽहं समीधे। सम्यग्दीपयामि। ञि इन्धी दीप्तौ। लिटीन्धिभवतिभ्यां चेति कित्त्वान्नलोपः। तदिदं सोऽयं रश्मि सङ्घो निवीयो नवतरो भवतु। स त्वं रेवद्धनयुक्तं यथा भवति तथा शोच। प्रज्वओअ। स एव त्वं गिरोऽस्मदीयाः स्तुतीर्जुषस्व। सेवस्व। स त्वं वाजं शत्रुबलं दर्षि। विआरय। तथेह मयि श्रवोऽन्नं धाः। धेहि॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९