मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६९, ऋक् ४

संहिता

यं त्वा॒ पूर्व॑मीळि॒तो व॑ध्र्य॒श्वः स॑मी॒धे अ॑ग्ने॒ स इ॒दं जु॑षस्व ।
स नः॑ स्ति॒पा उ॒त भ॑वा तनू॒पा दा॒त्रं र॑क्षस्व॒ यदि॒दं ते॑ अ॒स्मे ॥

पदपाठः

यम् । त्वा॒ । पूर्व॑म् । ई॒ळि॒तः । व॒ध्रि॒ऽअ॒श्वः । स॒म्ऽई॒धे । अ॒ग्ने॒ । सः । इ॒दम् । जु॒ष॒स्व॒ ।
सः । नः॒ । स्ति॒ऽपाः । उ॒त । भ॒व॒ । त॒नू॒ऽपाः । दा॒त्रम् । र॒क्ष॒स्व॒ । यत् । इ॒दम् । ते॒ । अ॒स्मे इति॑ ॥

सायणभाष्यम्

ईळितः। व्यत्ययेन कर्तरि क्तः। स्तोता वध्र्यश्वो मम पिता पूर्वं पूर्वस्मिन्काले सञ्जातं यं त्वा समीधे हविर्भिः सम्यगदिपयत् स त्वमिदानीं मया क्रियमाणमिदं स्तोत्रं जुषस्व। सेवस्व। यद्वा। वध्र्यश्वस्तस्य पुत्रोऽहं सम्यग्दीपितवानस्मि। स त्वं नोऽस्माकं स्तिपाः। अपिषोदरादिः। पस्त्यं गृहम् । तस्य रक्षको भव। यद्वा। उपस्थिताञ्ज्योतिष्टोमादीन्यागान्पालयतिति स्तिपाः। अस्मदीयानां यज्ञानां पालयिता भव। उतापि च तनूपाः स्वाङ्गनां रक्षको भव। किञ्च दात्रं तद्धनं रक्षस्व यदिदं धनं ते तव स्वभुतेष्वस्मे अस्मासु तिष्थति॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९