मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६९, ऋक् ५

संहिता

भवा॑ द्यु॒म्नी वा॑ध्र्यश्वो॒त गो॒पा मा त्वा॑ तारीद॒भिमा॑ति॒र्जना॑नाम् ।
शूर॑ इव धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः प्र नु वो॑चं॒ वाध्र्य॑श्वस्य॒ नाम॑ ॥

पदपाठः

भव॑ । द्यु॒म्नी । वा॒ध्रि॒ऽअ॒श्व॒ । उ॒त । गो॒पाः । मा । त्वा॒ । ता॒री॒त् । अ॒भिऽमा॑तिः । जना॑नाम् ।
शूरः॑ऽइव । घृ॒ष्णुः । च्यव॑नः । सु॒ऽमि॒त्रः । प्र । नु । वो॒च॒म् । वाध्रि॑ऽअश्वस्य । नाम॑ ॥

सायणभाष्यम्

हे व्याध्र्यश्व वध्र्यश्वकुले जाताग्ने द्युम्नी। द्युम्नं द्योततेर्यशोवान्नं वा। तद्वान्भव। उतापि च गोपा गोपयिता भव। किञ्च त्वा त्वां कश्चिदपि मा तारित्। मा हिनस्तु। यतो जनानां शत्रूणामभिमातिरभिभवनशीलमानयुक्तोऽभिभविता भवसि। किञ्च शूर इव बलवानिव धृष्णुः शत्रुधर्षणशीलः तस्माच्च्यवनस्तेषां च्यावयिता भवसि। अथ वाध्र्यश्वस्याग्नेस्तव नामाग्निर्जातवेदा वैश्वानर इत्यादीनि नामानि नु क्षिप्रं सुमित्रोऽहं प्र वोचम्। प्रब्रविमि। तस्मान्मेऽन्नादियुक्तो भव॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९