मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६९, ऋक् ७

संहिता

दी॒र्घत॑न्तुर्बृ॒हदु॑क्षा॒यम॒ग्निः स॒हस्र॑स्तरीः श॒तनी॑थ॒ ऋभ्वा॑ ।
द्यु॒मान्द्यु॒मत्सु॒ नृभि॑र्मृ॒ज्यमा॑नः सुमि॒त्रेषु॑ दीदयो देव॒यत्सु॑ ॥

पदपाठः

दी॒र्घऽत॑न्तुः । बृ॒हत्ऽउ॑क्षा । अ॒यम् । अ॒ग्निः । स॒हस्र॑ऽस्तरीः । श॒तऽनी॑थः । ऋभ्वा॑ ।
द्यु॒ऽमान् । द्यु॒मत्ऽसु॑ । नृऽभिः॑ । मृ॒ज्यमा॑नः । सु॒ऽमि॒त्रेषु॑ । दी॒द॒यः॒ । दे॒व॒यत्ऽसु॑ ॥

सायणभाष्यम्

दीर्घतन्तुः। यैर्यज्ञं सन्तनोति ते तन्तवः स्तोत्रादयः। प्तभुतस्तुतिमान्बृहदुक्षा। उक्षा सेचको रश्मिः। प्रभुतरश्मियुक्तः सहस्रस्तरीर्हवीरूपबह्वाच्छादनः शतनीथ आवहनीयादिद्वारेण बहुविधनयन ऋभ्वा महान्द्युमत्सु दीप्तिमत्सु मध्ये द्युमानतिशयेन दीप्तिमानयमग्निर्नृभि कर्मनेतृभिरृत्विग्भिर्मृज्यमानोऽलंक्रियमाणो भवति। मृजू शौचालङ्कारयोः। स त्वं देवयत्सु देवान्कामयमानेषु सुमित्रेष्वस्मासु दीदयः। दीप्यस्व। दिदयतिर्दीप्तिकर्मा॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०