मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६९, ऋक् ८

संहिता

त्वे धे॒नुः सु॒दुघा॑ जातवेदोऽस॒श्चते॑व सम॒ना स॑ब॒र्धुक् ।
त्वं नृभि॒र्दक्षि॑णावद्भिरग्ने सुमि॒त्रेभि॑रिध्यसे देव॒यद्भि॑ः ॥

पदपाठः

त्वे इति॑ । धे॒नुः । सु॒ऽदुघा॑ । जा॒त॒ऽवे॒दः॒ । अ॒स॒श्चता॑ऽइव । स॒म॒ना । स॒बः॒ऽधुक् ।
त्वम् । नृऽभिः॑ । दक्षि॑णावत्ऽभिः । अ॒ग्ने॒ । सु॒ऽमि॒त्रेभिः॑ । इ॒ध्य॒से॒ । दे॒व॒यत्ऽभिः॑ ॥

सायणभाष्यम्

हे जातवेदो जातप्रज्ञाग्ने त्वे त्वयि सुदुघा सुष्ठु पयसो दोग्ध्री काचिद्धोमसाधनभुता धेनुरस्ति। कीदृशी। असश्चतेव सङ्गवर्जितेनेवैकत्र स्थित्यभावात्कुत्रापि न संयुक्तेनादित्येन समना सङ्गता सबर्धुगमृतं दुहाना। गोरूपा माध्यमिका वाग्वैद्युते त्वय्यस्तिति भावः। तादृशस्त्वं नृभिः कर्मनेतृभिर्दक्षणावद्भिरृत्विग्भ्यो देयत्वेन तद्वद्भिर्देवयद्भिर्देवकामैः सुमित्रेभिरस्माभिरिध्यसे हविर्भिर्दीप्यसे॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०