मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६९, ऋक् ९

संहिता

दे॒वाश्चि॑त्ते अ॒मृता॑ जातवेदो महि॒मानं॑ वाध्र्यश्व॒ प्र वो॑चन् ।
यत्स॒म्पृच्छं॒ मानु॑षी॒र्विश॒ आय॒न्त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ॥

पदपाठः

दे॒वाः । चि॒त् । ते॒ । अ॒मृताः॑ । जा॒त॒ऽवे॒दः॒ । म॒हि॒मान॑म् । वा॒ध्रि॒ऽअ॒श्व॒ । प्र । वो॒च॒न् ।
यत् । स॒म्ऽपृच्छ॑म् । मानु॑षीः । विशः॑ । आय॑न् । त्वम् । नृऽभिः॑ । अ॒ज॒यः॒ । त्वाऽवृ॑धेभिः ॥

सायणभाष्यम्

हे जातवेदो हे वाध्र्यश्वाग्ने ते तव महिमानममैता देवाश्चिद्देवा अपि प्र वोचन्। प्रब्रुवन्ति। यद्यद मानुषीर्मनुष्यसम्बन्धिन्यो विशः प्रजाः सम्पृच्छं देवैः सह को वा असुरान्हन्तीत्येवमादिकं सम्प्रश्नमायन् प्राप्तवन्तः तदा त्वं नृभिः सर्वस्य नेतृभिस्त्वावृधेभिस्त्वया वर्धितैर्देवैः सह कर्मविघ्नकारिणस्तनजयः। जितवानसि॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०