मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६९, ऋक् ११

संहिता

शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒ शत्रू॒न्नृभि॑र्जिगाय सु॒तसो॑मवद्भिः ।
सम॑नं चिददहश्चित्रभा॒नोऽव॒ व्राध॑न्तमभिनद्वृ॒धश्चि॑त् ॥

पदपाठः

शश्व॑त् । अ॒ग्निः । व॒ध्रि॒ऽअ॒श्वस्य॑ । शत्रू॑न् । नृऽभिः॑ । जि॒गा॒य॒ । सु॒तसो॑मवत्ऽभिः ।
सम॑नम् । चि॒त् । अ॒द॒हः॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । अव॑ । व्राध॑न्तम् । अ॒भि॒न॒त् । वृ॒धः । चि॒त् ॥

सायणभाष्यम्

सोऽग्निर्वर्ध्यश्वस्य सुतसोमवद्भिरभिषुतसोमैः। अनुवादको मत्वर्थीयः। तैर्नृभिरृत्विग्भिः शश्वत् सर्वदा शत्रूञ्जगाय। जितवान्। अथ प्रत्यक्षः। हे चित्रभानो नानातेजस्क चायनीयदीप्तिमन्नग्ने त्वं समनं चित्। समनमिति सङ्ग्रामनाम। तमप्यदहः स्वतेजोभिः। अथ तव स्तोता वाध्र्यश्वो वैधश्चित्स्वयम् व्रुद्धो भवन्व्राधन्तं वर्धमानं हिंसकं वावाभिनत्। अवङ्मुखम् कृत्वाच्छनत्। यद्वा। त्वमेव तमवाभिनत्। अवाङ्मुखं कृत्वाभिनः। आच्छिनः। प्रथममध्यमयोह् समानमेतद्रूपं॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०