मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७०, ऋक् १

संहिता

इ॒मां मे॑ अग्ने स॒मिधं॑ जुषस्वे॒ळस्प॒दे प्रति॑ हर्या घृ॒ताची॑म् ।
वर्ष्म॑न्पृथि॒व्याः सु॑दिन॒त्वे अह्ना॑मू॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ॥

पदपाठः

इ॒माम् । मे॒ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । जु॒ष॒स्व॒ । इ॒ळः । प॒दे । प्रति॑ । ह॒र्य॒ । घृ॒ताची॑म् ।
वर्ष्म॑न् । पृ॒थि॒व्याः । सु॒दिन॒ऽत्वे । अह्ना॑म् । ऊ॒र्ध्वः । भ॒व॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दे॒व॒ऽय॒ज्या ॥

सायणभाष्यम्

इमाम् म इत्येकादशर्चम् द्वितीयं सुक्तम्। वाध्र्यश्वस्य सुमित्रस्यार्षम् त्रैष्टुभं तनूनपाद्वर्जिताः सनराशम्साः समिदादयः प्रत्यृदं देवताः। तथाचानुक्रान्तम्। इमां म एकादशाप्रमिति। वध्र्यश्वगोत्रानां पशाविदमाप्रीसूक्तम्। सूत्रितं च। समिद्धो आद्येति सर्वेषां यथऋषि वा। आ. ३-२। इति॥

हे अग्ने इळस्पद इळायास्पदे। एतद्वा इळायास्पदं यदुत्तरवेदी नाभिः। इति ब्राह्मणम् । उत्तरवेद्यामिमां मे मदीयां समिधं युषस्व। सेवस्व। तथा घृताचीं घृतमञ्चतीं स्रुचं प्रति हर्य। प्रतिकामयस्व। किञ्च हे सुक्रतो सुप्रज्ञ पृथिव्या वर्ष्मन्वर्ष्मणि सनुच्छ्रिते पूर्वोक्ते देशेऽह्नां सुदिनत्वे तन्निमित्तं देवयज्या देवयागेन हेतुनोर्ध्वो ज्वालाभिरुन्नतो भव॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१