मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७०, ऋक् २

संहिता

आ दे॒वाना॑मग्र॒यावे॒ह या॑तु॒ नरा॒शंसो॑ वि॒श्वरू॑पेभि॒रश्वै॑ः ।
ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो॑ दे॒वेभ्यो॑ दे॒वत॑मः सुषूदत् ॥

पदपाठः

आ । दे॒वाना॑म् । अ॒ग्र॒ऽयावा॑ । इ॒ह । या॒तु॒ । नरा॒शंसः॑ । वि॒श्वऽरू॑पेभिः । अश्वैः॑ ।
ऋ॒तस्य॑ । प॒था । नम॑सा । मि॒येधः॑ । दे॒वेभ्यः॑ । दे॒वऽत॑मः । सु॒सू॒द॒त् ॥

सायणभाष्यम्

देवानामग्रयावाग्रे गन्ता नराशंसः। उभे वनस्पत्यादिषु युगपदिति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम्। नरैः शंसनीय एतन्नामकोऽग्निर्विश्वरूपेभिर्नानारूपैरश्वै रोहिदाख्यैः सहेहास्मिन्यज्ञ आ यातु। आगत्य च मियेधो मेध्यो यज्ञहितः स्तुतियोग्यो वा देवतमो देवानां मुख्यः सोऽग्निर्हविर्नयनयोग्येनर्तस्य यज्ञस्य पथा मार्गेन नमसा स्तोत्रेण सह देवेभ्य इन्द्रादिभ्यह् सुषूदत्। हविः प्रेरयतु॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१