मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७०, ऋक् ३

संहिता

श॒श्व॒त्त॒ममी॑ळते दू॒त्या॑य ह॒विष्म॑न्तो मनु॒ष्या॑सो अ॒ग्निम् ।
वहि॑ष्ठै॒रश्वै॑ः सु॒वृता॒ रथे॒ना दे॒वान्व॑क्षि॒ नि ष॑दे॒ह होता॑ ॥

पदपाठः

श॒श्व॒त्ऽत॒मम् । ई॒ळ॒ते॒ । दू॒त्या॑य । ह॒विष्म॑न्तः । म॒नु॒ष्या॑सः । अ॒ग्निम् ।
वहि॑ष्ठैः । अश्वैः॑ । सु॒ऽवृता॑ । रथे॑न । आ । दे॒वान् । व॒क्षि॒ । नि । स॒द॒ । इ॒ह । होता॑ ॥

सायणभाष्यम्

शश्वत्तममत्यन्तम् नित्यमग्निं हविष्मन्तः सम्भृतहविष्का मनुष्यासो मनुष्या यजमाना दूत्याय। दूतस्य भागकर्मणी इति यश्प्रत्ययः। दुतकर्मने हविर्वहनलक्षणाय तन्निमित्तमीळते। स्तुवन्ति। स त्वमेवं स्तुतो वहिष्थैर्वोढृतमैरश्वैः सुवृता सुवर्तनेन रथेन च सह देवानिन्द्रादीना वक्षि। अस्मदीयं यज्ञम् प्रत्यावह। प्रापय। तस्त्वं होता भवन्निहास्मिन्यज्ञे नि सद। निषीद॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१