मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७०, ऋक् ४

संहिता

वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू॑त्व॒स्मे ।
अहे॑ळता॒ मन॑सा देव बर्हि॒रिन्द्र॑ज्येष्ठाँ उश॒तो य॑क्षि दे॒वान् ॥

पदपाठः

वि । प्र॒थ॒ता॒म् । दे॒वऽजु॑ष्टम् । ति॒र॒श्चा । दी॒र्घम् । द्रा॒घ्मा । सु॒र॒भि । भू॒तु॒ । अ॒स्मे इति॑ ।
अहे॑ळता । मन॑सा । दे॒व॒ । ब॒र्हिः॒ । इन्द्र॑ऽज्येष्ठान् । उ॒श॒तः । य॒क्षि॒ । दे॒वान् ॥

सायणभाष्यम्

हे बर्हिर्नामकाग्ने देवजुष्टं देवैः सेवितं तिरश्चा तिरश्चीनं तिर्यगञ्चनमिदं बर्हिर्वि प्रथताम् । विशेषेण विस्तृतं भवतु। तथा दीर्घं चेदं द्राघ्मादाघिम्ना। दीर्घशब्दस्येमनिचि प्रियस्थिरेत्यादिना द्राघिरादेशः। अकारस्येकारोवर्णव्यापत्त्या। पश्चादल्लोपः। द्राघिम्ना युक्तं भवतु। अस्मे अस्मदीयम् बर्हिः सुरभि सोमादिहविर्निधानेन सुगन्धं भूतु। भवतु। हे देव द्योतमान हे बर्हिरेतन्नामकाग्ने अहॆळता। हेल इति क्रोधनाम। आक्रुध्यता मनसोशतो हवींषि कामयामानानिन्द्रज्येष्ठानिन्द्रप्रधानान्देवान्यक्षि। या। पूजय॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१