मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७०, ऋक् ५

संहिता

दि॒वो वा॒ सानु॑ स्पृ॒शता॒ वरी॑यः पृथि॒व्या वा॒ मात्र॑या॒ वि श्र॑यध्वम् ।
उ॒श॒तीर्द्वा॑रो महि॒ना म॒हद्भि॑र्दे॒वं रथं॑ रथ॒युर्धा॑रयध्वम् ॥

पदपाठः

दि॒वः । वा॒ । सानु॑ । स्पृ॒शत॑ । वरी॑यः । पृ॒थि॒व्या । वा॒ । मात्र॑या । वि । श्र॒य॒ध्व॒म् ।
उ॒श॒तीः । द्वा॒रः॒ । म॒हि॒ना । म॒हत्ऽभिः॑ । दे॒वम् । रथ॑म् । र॒थ॒ऽयुः । धा॒र॒य॒ध्व॒म् ॥

सायणभाष्यम्

हे द्वार एतन्नामधेया देव्यः यूयं दिवो वा। वाशब्दश्चार्थे। दिवश्च सानुसमुच्छ्रितं वरीय उरुतरं स्थानं स्पृशत। उन्नता भवतेत्यर्थः। चवायोगे प्रथमेति न निघातः। पृथिव्याश्च यावती मात्रास्ति तावत्या मात्रया वि श्रयध्वम्। विस्तृता भवत। उशतीर्देवान्कामयमाना यूयं रथयुः। सुपां सुलुगिति जशसुः। रथकामाः सत्यो महिना महिम्ना महद्भिर्देवैरधिष्ठितं अत एव देवं द्योतमानं रथं रमणसाधनं धारयध्वम्। धारयत॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१