मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७०, ऋक् ६

संहिता

दे॒वी दि॒वो दु॑हि॒तरा॑ सुशि॒ल्पे उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।
आ वां॑ दे॒वास॑ उशती उ॒शन्त॑ उ॒रौ सी॑दन्तु सुभगे उ॒पस्थे॑ ॥

पदपाठः

दे॒वी इति॑ । दि॒वः । दु॒हि॒तरा॑ । सु॒शि॒ल्पे इति॑ सु॒ऽशि॒ल्पे । उ॒षसा॒नक्ता॑ । स॒द॒ता॒म् । नि । योनौ॑ ।
आ । वा॒म् । दे॒वासः॑ । उ॒श॒ती॒ इति॑ । उ॒शन्तः॑ । उ॒रौ । सी॒द॒न्तु॒ । सु॒भ॒गे॒ इति॑ सुऽभगे । उ॒पऽस्थे॑ ॥

सायणभाष्यम्

देवी द्योतमाने दिवो द्युलोकस्य दुहितरा दुहितरौ सुशिल्पे शोभनरूपे उषासानक्तोषाश्च नक्तं चाहोरात्रौ योनौ यज्ञस्य स्थाने नि सदताम्। निषीदताम्। हे उशती उशत्यौ कामयमाने हे सुभगे शोभनधने हे देव्यौ वां युवयोरुरौ विस्तीर्णं उपस्थे समीपस्थे स्थान उशन्तो हवींशि कामयमाना देवासो देवा आ सीदन्तु। उपविशन्तु॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२