मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७०, ऋक् ८

संहिता

तिस्रो॑ देवीर्ब॒र्हिरि॒दं वरी॑य॒ आ सी॑दत चकृ॒मा वः॑ स्यो॒नम् ।
म॒नु॒ष्वद्य॒ज्ञं सुधि॑ता ह॒वींषीळा॑ दे॒वी घृ॒तप॑दी जुषन्त ॥

पदपाठः

तिस्रः॑ । दे॒वीः॒ । ब॒र्हिः । इ॒दम् । वरी॑यः । आ । सी॒द॒त॒ । च॒कृ॒म । वः॒ । स्यो॒नम् ।
म॒नु॒ष्वत् । य॒ज्ञम् । सुऽधि॑ता । ह॒वींषि॑ । इळा॑ । दे॒वी । घृ॒तऽप॑दी । जु॒ष॒न्त॒ ॥

सायणभाष्यम्

हे तिस्रो देवीरिळाद्यास्तिस्रो देव्यः वरीय उरुतरमिदं बर्हिरा सीदत। कालाध्वनोरिति द्वितीया। अत्यन्तं तस्मिन्निषीदत। कुत एतत् तत्राह वो युष्मदर्थं स्योनं विस्तीर्णमिदं च कृम। वयं कृतवन्तः। वाक्यभेदादनिघातः। इळैतन्नामिका देवी द्योतमाना सरस्वति घृतपदी दीप्तपदोपेता भारती चैता मनुष्वन्मनोर्यज्ञे यथा हवींष्यसेवन्त तद्वदस्मदीयं यज्ञं सुधिता सुष्ठु निहितानि हवींषि च जुषन्त। सेवताम्॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२