मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७०, ऋक् ९

संहिता

देव॑ त्वष्ट॒र्यद्ध॑ चारु॒त्वमान॒ड्यदङ्गि॑रसा॒मभ॑वः सचा॒भूः ।
स दे॒वानां॒ पाथ॒ उप॒ प्र वि॒द्वाँ उ॒शन्य॑क्षि द्रविणोदः सु॒रत्न॑ः ॥

पदपाठः

देव॑ । त्व॒ष्टः॒ । यत् । ह॒ । चा॒रु॒ऽत्वम् । आन॑ट् । यत् । अङ्गि॑रसाम् । अभ॑वः । स॒चा॒ऽभूः ।
सः । दे॒वाना॑म् । पाथः॑ । उप॑ । प्र । वि॒द्वान् । उ॒शन् । य॒क्षि॒ । द्र॒वि॒णः॒ऽदः॒ । सु॒ऽरत्नः॑ ॥

सायणभाष्यम्

त्वाष्ट्रस्य पशोर्वपायागस्य देव त्वष्टरिति याज्या। सूत्रितं च। देव त्वष्टर्यद्ध चारुत्वमानट् पिशङ्गरूपः सुभरो वयोधाः। आ. ३-८। इति॥

हे देव त्वष्टरेतन्नामक त्वं यच्चरुत्वं हविर्भिः कल्याणरूपत्वमानट् प्राप्तवान्। अश्नोतेर्लिटि प्रत्ययस्य लुक्। यच्च त्वमङ्गिरसामस्माकं सचाभूः सहभावी सखाभवः। हे द्रविणोदो धनस्य दातः अव एव सुरत्नः सुधनः स त्वमुशन्हवींषि कामयमानः सन् विद्वान् आस्येदमस्येदमिति प्रजानन्देवानां पाथोऽन्नमुप यक्षि। उपयज। तेभ्यः प्रयच्छा॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२