मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७०, ऋक् १०

संहिता

वन॑स्पते रश॒नया॑ नि॒यूया॑ दे॒वानां॒ पाथ॒ उप॑ वक्षि वि॒द्वान् ।
स्वदा॑ति दे॒वः कृ॒णव॑द्ध॒वींष्यव॑तां॒ द्यावा॑पृथि॒वी हवं॑ मे ॥

पदपाठः

वन॑स्पते । र॒श॒नया॑ । नि॒ऽयूय॑ । दे॒वाना॑म् । पाथः॑ । उप॑ । व॒क्षि॒ । वि॒द्वान् ।
स्वदा॑ति । दे॒वः । कृ॒णव॑त् । ह॒वींषि॑ । अव॑ताम् । द्यावा॑पृथि॒वी इति॑ । हव॑म् । मे॒ ॥

सायणभाष्यम्

वनस्पतिस्तोमे निष्केवल्ये वनस्पते रशनयेत्येषा सूक्तमुखीया। सूत्रितं च । देवेभ्यो वनस्पते हवींषि वनस्पते रशनया नियूयेति सूक्तमुखीयाः। आ. ९-५। इति॥

हे वनस्पते वनस्पतिविकार यूप विद्वाञ्जानानस्त्वं रशनया रज्ज्वा नियूयबद्ध्वा परिव्याय पाथोऽन्नं देवानामिन्द्रादीनामुप वक्षि। उपवह। प्रापय। ततो देवो वनस्पतिः स्वदाति। हविष्प्रापणेन स्वदयतु। तथा हवींष्यस्माभिर्दत्तानि कृणवत्। देवानां करोतु। तथा मे मदीयं हवं देवविषयाह्वानं द्यावापृथिवी द्यावापृथिव्याववताम्। रक्शताम्॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२