मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७०, ऋक् ११

संहिता

आग्ने॑ वह॒ वरु॑णमि॒ष्टये॑ न॒ इन्द्रं॑ दि॒वो म॒रुतो॑ अ॒न्तरि॑क्षात् ।
सीद॑न्तु ब॒र्हिर्विश्व॒ आ यज॑त्रा॒ः स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥

पदपाठः

आ । अ॒ग्ने॒ । व॒ह॒ । वरु॑णम् । इ॒ष्टये॑ । नः॒ । इन्द्र॑म् । दि॒वः । म॒रुतः॑ । अ॒न्तरि॑क्षात् ।
सीद॑न्तु । ब॒र्हिः । विश्वे॑ । आ । यज॑त्राः । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥

सायणभाष्यम्

हे अग्ने त्वं नोऽस्माकमिष्टये यागायेन्द्रं वरुणम् च मरुतश्च दिवो द्युलोकादन्तरिक्षाच्चास्मदीयं यज्ञमा वह। प्रापय। आगतस्ते यजत्रा यष्टव्या विश्वे सर्वे वेवा बर्हिरा सीदन्तु। तत्रासन्नाभवन्तु। ततोऽमृता मरणधर्मरहिता देवाः स्वाहा स्वाहाकारेण दत्तैर्हविर्भिर्मादयन्ताम्। आत्मानं मावयन्तु॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२