मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७१, ऋक् २

संहिता

सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त ।
अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ॥

पदपाठः

सक्तु॑म्ऽइव । तित॑ऽउना । पु॒नन्तः॑ । यत्र॑ । धीराः॑ । मन॑सा । वाच॑म् । अक्र॑त ।
अत्र॑ । सखा॑यः । स॒ख्यानि॑ । जा॒न॒ते॒ । भ॒द्रा । ए॒षा॒म् । ल॒क्ष्मीः । निऽहि॑ता । अधि॑ । वा॒चि ॥

सायणभाष्यम्

तितौना। परिपुयतेऽनेनेति। यद्वा। तता विस्तृत भृष्टयवा अत्रेति तितौः। तनोतेर्डौः सन्वच्च। उ. ५-५२। इति ड उ प्रत्ययः। सन्वद्भावादित्वम्। उक्तनिर्वचनेन सूर्पेण सक्तुमिव यथा कश्चित्सक्तुं दुर्धावं पुनाति तद्वत् प्रकृतितः प्रत्ययतश्च शब्दानुत्पुनन्तो धीरा धीमन्तो विद्वांसो यत्र यस्मिन्काले विद्वस्तङ्घे वा मनसा प्रज्ञायुक्तेन वाचमक्रत अकृषत कुर्वन्ति। करोतेर्लुङि रुपम्। अत्र तत्र काले सखायः समानख्यानाः शास्त्रादिविषयज्ञानास्ते सख्यानि तेषु भवानि यज्ञानानि जानते। जानन्ति। यद्वा। सखायो वाचा बद्धसख्यास्ते तस्यास्तस्या वाचः सख्यानि जानन्ति। वाक्ययुक्तानभ्युदयांल्लभन्त इत्यर्थः। तस्मादेषां वाचि भद्रा कल्याणी निहिता लक्षीर्भवति। अधिः सप्तम्यर्थद्योतकः। अर्थज्ञानं वाचि पश्याम इत्यर्थः। तितौ परिपवनं भवति ततवद्वा तुन्नवद्वा तिलमात्रतुन्नमिति वा सक्तुमिव तितौनेत्यादि निरुक्तमनुसन्धेयम्। नि. ४-१०॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३