मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७१, ऋक् ४

संहिता

उ॒त त्व॒ः पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्व॑ः शृ॒ण्वन्न शृ॑णोत्येनाम् ।
उ॒तो त्व॑स्मै त॒न्वं१॒॑ वि स॑स्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑ः ॥

पदपाठः

उ॒त । त्वः॒ । पश्य॑न् । न । द॒द॒र्श॒ । वाच॑म् । उ॒त । त्वः॒ । शृ॒ण्वन् । न । शृ॒णो॒ति॒ । ए॒ना॒म् ।
उ॒तो इति॑ । त्व॒स्मै॒ । त॒न्व॑म् । वि । स॒स्रे॒ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ ॥

सायणभाष्यम्

श्वशब्द एकवाची। एकः । उतशब्दोऽप्यर्थे। पश्यन्नपि मनसा पर्यालोचयन्नपि वाचं न ददर्श। दर्शनफलाभावान्न पश्यति। त्व एकः श्वण्वन्नप्येनां वाचं न शृणॊति श्रवणफलाभावात्। इत्यनेनार्धेनाविद्वानभिहितः। तृतीयपादेन विदितवेदार्थमाह। त्वस्मा एकस्मा अपि तन्वमात्मीयं शरीरं वि सस्रे। स्वयं वाग्विविधं गमयति। आत्मानं विवृणुते प्रकाशयतीत्यर्थः। तत्र दृष्टान्तः। जायेव यथोशती सम्भोगं कामयमाना सुवासाः शोभनवसना जाया पत्ये भर्त्र ऋतुकाले सम्भोगार्थं स्वयमात्मानं विवृणुते तद्वदेनाम् पश्यते शृणोति चेति विदित वेदार्थस्य प्रशंसा। अप्येकः पश्यन्न पश्यति वाचमित्यादि निरुक्तमत्र द्रष्टव्यम् । नि. -१-१९॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३