मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७१, ऋक् ६

संहिता

यस्ति॒त्याज॑ सचि॒विदं॒ सखा॑यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति ।
यदीं॑ शृ॒णोत्यल॑कं शृणोति न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॑म् ॥

पदपाठः

यः । ति॒त्याज॑ । स॒चि॒ऽविद॑म् । सखा॑यम् । न । तस्य॑ । वा॒चि । अपि॑ । भा॒गः । अ॒स्ति॒ ।
यत् । ई॒म् । शृ॒णोति॑ । अल॑कम् । शृ॒णो॒ति॒ । न॒हि । प्र॒ऽवेद॑ । सु॒ऽकृ॒तस्य॑ । पन्था॑म् ॥

सायणभाष्यम्

सचिविदम् । शचिशब्दः सखिवाची। सखिविदम्। योऽध्येता स वेदस्य सखा सम्पदायोच्छेदनिवारकत्वेन वेदं प्रत्युपकारित्वत्। तादृशमुपकारिनमध्येतारं वेत्तीति सचिवित् तमभिज्ञं सखायमध्येतॄणाम् पुरुषाणां सार्थबोधनेनोपकारित्वात्सखिभूतं वेदं यः पुमांस्तित्याज परार्थविनियोगेन परित्यजति। त्यजतेर्लिट्यपस्पैधेथामानृचुरित्यादिना निपातितः। तस्य पुरुषस्य वाचि सर्वस्यां लौकिक्यां शास्त्रीयायां वाच्यपि भागो भजनीयः कश्चिदर्थो नास्ति। ईमयं पुरुषो यद्वेदव्यतिरिक्तं शृणोति तदलकमलीकं व्यर्थमेव शृणॊति। हि यस्मात्कारणात्सुकृतस्य पन्थां पन्थानं न प्रवेद। श्रद्धाराहित्यदनुष्थानमार्गं न जानाति। तस्मात्तदीयशरवणमपि निश्फलमित्यर्थः। द्वितीयचतुर्थाअदयोरभिप्राय आरण्यके दर्शितो न तस्यानूक्ते भागोऽस्तीत्यादिना । ऐ. आ. ३-२-४। तथा तम् योनूत्सृजत्यभागो वाचि भवत्यभागो नाके तदेषभ्युक्ता। तै. आ. २-१५-५॥ इत्यध्वर्युभिश्च॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४