मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७१, ऋक् १०

संहिता

सर्वे॑ नन्दन्ति य॒शसाग॑तेन सभासा॒हेन॒ सख्या॒ सखा॑यः ।
कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये॑षा॒मरं॑ हि॒तो भव॑ति॒ वाजि॑नाय ॥

पदपाठः

सर्वे॑ । न॒न्द॒न्ति॒ । य॒शसा॑ । आऽग॑तेन । स॒भा॒ऽसा॒हेन॑ । सख्या॑ । सखा॑यः ।
कि॒ल्बि॒ष॒ऽस्पृत् । पि॒तु॒ऽसनिः॑ । हि । ए॒षा॒म् । अर॑म् । हि॒तः । भव॑ति । वाजि॑नाय ॥

सायणभाष्यम्

सोम प्रवहणे सर्वे नन्दन्तीत्येषा। सुत्रितं च। सोम यास्ते मयो भुव इति तिस्रः सर्वे नन्दन्ति यशसागतेन। आ. ४-४-। इति।

सखाय समानख्यानाः समानज्ञानाह् सर्वे सभ्या मनुष्याः सभासहेन सभाम् सोढुं शक्नुवता सख्यर्त्विजां प्रतिभुतेन यज्ञं प्रत्यागतेन यशसा यशस्विना सोमेन हेतुना नन्दन्ति। हृष्टा भवन्ति। स हि स एव सोम एषां जनानां किल्बिषस्पृत्। यः स्वस्मादन्यः पुरुषह् श्रॆष्ठतामश्नुते स किल्बिषं भवति बाध्यत्वेन। यथा पापं सदाचारैर्बाधितव्यं भवति तद्वत्। पापरूपस्य शत्रोर्बाधकः। यद्वा। यज्ञे साध्वनुप्रवचनाकरणेन यत्किल्बिषम् येषां सञ्जायते तद्यो बाधते स किल्बिषस्पृत् तथा त्वं पितुषणीः। पितुरित्यन्ननाम दक्षिणा वा। तमनेन सोमेन सनोति यजमानः सम्भजत इति तादृशः तेषामन्नदक्षणादातेत्यर्थः। किञ्च। हितः। पात्रेषु निहितः सोमो वाजिनाय। इन्द्रियं वीर्यं वाजिनम् । तेषां वीर्याय तत्कर्तुमरमलं पर्याप्तः समर्थो भवति। सर्वे नन्दन्ति यशसागतेनेत्यन्वाह यशो वै सोमो राजेत्यादिकमिन्द्रियं वै वीर्यं वाजिनमाजरसं हास्मै वाजिनं नापच्छिद्यत इत्यन्तं ब्राह्मणमत्रानुसन्धेयम्। ऐ. ब्रा. १-१३॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४