मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७२, ऋक् १

संहिता

दे॒वानां॒ नु व॒यं जाना॒ प्र वो॑चाम विप॒न्यया॑ ।
उ॒क्थेषु॑ श॒स्यमा॑नेषु॒ यः पश्या॒दुत्त॑रे यु॒गे ॥

पदपाठः

दे॒वाना॑म् । नु । व॒यम् । जाना॑ । प्र । वो॒चा॒म॒ । वि॒प॒न्यया॑ ।
उ॒क्थेषु॑ । श॒स्यमा॑नेषु । यः । पश्या॑त् । उत्ऽत॑रे । यु॒गे ॥

सायणभाष्यम्

तत्र देवानामिति नवर्चमनुवाकापेक्षया चतुर्थं सूक्तमानुष्टुभं देवदेवत्यम् । लिकनाम्नः पुत्रो बृहस्पतिराङ्गिरस एव वा बृहस्पतिरृहिः। अथवा दक्षस्य दुहितादिति रुषिः। तथा चानुक्रान्तम्। देवानाम् नव लौक्यो वा बृहस्पतिर्दाक्षायण्यदितिर्वा दैवमानुष्तुभमिति। गतः सूक्तविनियोगः॥

अदितिर्दाक्षायण्यनेन सूक्तेन्द् स्वयं यथादित्यानजनयत्तद्ब्रवीति। बृहस्पत्यृषिपक्शे स ऋषिरदितेः सकाशादादित्योत्पत्तिप्रकारमाह। वयम् देवानामादित्यानाम् जाना जन्मानि प्र वोचाम। प्रकथयाम। विपन्यया विस्पष्टया वाचा। वयमिति वोचामेति चोभयत्र पूजार्थं बहुवचनम् । अथैकवदाह। यो देवानां गणः पूर्वे युग उत्पन्नोऽप्युक्थेषु शस्यमानेषु यागे शस्त्रेष्वनुष्ठीयमानेषूत्तरे युगे वर्तमानं स्तुवन्तं स्तोतारं पस्यात् पश्यति। अनेकेष्वपि युगेषु गतेषु कर्मसु सूयमानो वर्तत इत्यर्थः॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः