मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७२, ऋक् ३

संहिता

दे॒वानां॑ यु॒गे प्र॑थ॒मेऽस॑त॒ः सद॑जायत ।
तदाशा॒ अन्व॑जायन्त॒ तदु॑त्ता॒नप॑द॒स्परि॑ ॥

पदपाठः

दे॒वाना॑म् । पू॒र्व्ये । यु॒गे । अस॑तः । सत् । अ॒जा॒य॒त॒ ।
तत् । आशाः॑ । अनु॑ । अ॒जा॒य॒न्त॒ । तत् । उ॒त्ता॒नऽप॑दः । परि॑ ॥

सायणभाष्यम्

पूर्वार्धमुक्तम्। तदन्वाशा दिशोऽजायन्त। तत्परि। तदन्वित्यर्थः। उत्तानपदः। उत्तानमूर्ध्वतानं पद्यन्त इत्युत्तानपदो वृक्षाः। तेऽजायन्त। प्रदुरभवन्॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः