मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७२, ऋक् ६

संहिता

यद्दे॑वा अ॒दः स॑लि॒ले सुसं॑रब्धा॒ अति॑ष्ठत ।
अत्रा॑ वो॒ नृत्य॑तामिव ती॒व्रो रे॒णुरपा॑यत ॥

पदपाठः

यत् । दे॒वाः॒ । अ॒दः । स॒लि॒ले । सुऽसं॑रब्धाः । अति॑ष्ठत ।
अत्र॑ । वः॒ । नृत्य॑ताम्ऽइव । ती॒व्रः । रे॒णुः । अप॑ । आ॒य॒त॒ ॥

सायणभाष्यम्

अनयोत्तरेण चादित्याः स्तूयन्ते। यद्यदा हे देवाः अदोऽमुष्मिन्सलिले यूयं सुसंरब्द्धाः सुष्ठु लब्धात्मनोऽतिष्थत स्थिवन्तः। आपो वा इदं सर्वम् । तै. आ. १०-२२। अप एव ससर्जादाविति श्रुतिस्मृती। अत्रास्मिन्सलिले नृत्यतामिव वो युश्माकं सम्बन्धी तीव्रो दुःसहो रेणुरंशभुत एकोऽपायत। अपागच्छत्। दिवं प्रति गत इति सूर्याभिप्रायम् । परा मार्ताण्डमास्यदिति वक्ष्यति॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः