मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७३, ऋक् ३

संहिता

ऋ॒ष्वा ते॒ पादा॒ प्र यज्जिगा॒स्यव॑र्ध॒न्वाजा॑ उ॒त ये चि॒दत्र॑ ।
त्वमि॑न्द्र सालावृ॒कान्त्स॒हस्र॑मा॒सन्द॑धिषे अ॒श्विना व॑वृत्याः ॥

पदपाठः

ऋ॒ष्वा । ते॒ । पादा॑ । प्र । यत् । जिगा॑सि । अव॑र्धन् । वाजाः॑ । उ॒त । ये । चि॒त् । अत्र॑ ।
त्वम् । इ॒न्द्र॒ । सा॒ला॒वृ॒कान् । स॒हस्र॑म् । आ॒सन् । द॒धि॒षे॒ । अ॒श्विना॑ । आ । व॒वृ॒त्याः॒ ॥

सायणभाष्यम्

हे इन्द्र ते पादावृष्वा महान्तौ। तादृशस्त्वं यद्यदा जिगासि गच्छसि तदानीं वाजा ऋभवोऽवर्धन्। अवर्धयन्। उतपि च ये चिद्ये केचिद्देवाः सन्ति तेऽप्यवर्धयन्। हे इन्द्र त्वं सहस्रं सालावृकानासन्नास्ये दधिषे। धारयसि। तदानीमश्विनाश्विनावप्या ववृत्याः। आवर्तयेः॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः