स॒म॒ना तूर्णि॒रुप॑ यासि य॒ज्ञमा नास॑त्या स॒ख्याय॑ वक्षि ।
व॒साव्या॑मिन्द्र धारयः स॒हस्रा॒श्विना॑ शूर ददतुर्म॒घानि॑ ॥
स॒म॒ना । तूर्णिः॑ । उप॑ । या॒सि॒ । य॒ज्ञम् । आ । नास॑त्या । स॒ख्याय॑ । व॒क्षि॒ ।
व॒साव्या॑म् । इ॒न्द्र॒ । धा॒र॒यः॒ । स॒हस्रा॑ । अ॒श्विना॑ । शू॒र॒ । द॒द॒तुः॒ । म॒घानि॑ ॥
हे इन्द्रा समना सङ्ग्रामे तूर्णिस्त्वरमाणोऽपि यज्ञमुप यासि। उपगच्छसि। तदानीं नासत्याश्विनौ सख्याय वक्षि। वहसि। हे इन्द्र वसाव्यां वसुसमुहं सहस्रा सहस्रां बहुसङ्ख्यां धारयः। धारयस्यस्माकमर्थाय। हे शूर अश्विनाश्विनावपि तवानुचरौ मघानि धनानि ददतुः। अस्मभ्यं प्रयच्छतः॥४॥