मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७३, ऋक् ५

संहिता

मन्द॑मान ऋ॒तादधि॑ प्र॒जायै॒ सखि॑भि॒रिन्द्र॑ इषि॒रेभि॒रर्थ॑म् ।
आभि॒र्हि मा॒या उप॒ दस्यु॒मागा॒न्मिह॒ः प्र त॒म्रा अ॑वप॒त्तमां॑सि ॥

पदपाठः

मन्द॑मानः । ऋ॒तात् । अधि॑ । प्र॒ऽजायै॑ । सखि॑ऽभिः । इन्द्रः॑ । इ॒षि॒रेभिः॑ । अर्थ॑म् ।
आ । आ॒भिः॒ । हि । मा॒याः । उप॑ । दस्यु॑म् । आ । अगा॑त् । मिहः॑ । प्र । त॒म्राः । अ॒व॒प॒त् । तमां॑सि ॥

सायणभाष्यम्

इन्द्र ऋताद्यज्ञादधीशिरेभिर्गमनशीलैः सखिभिर्मरुद्भिः सह मन्दसानो माद्यन्प्रजायै यजमानायार्थं धनं प्रयच्छति। स चेन्द्र आभिः प्रजाभिर्निमित्तभूताभिर्माया दस्युसम्बन्धिनीर्विनाशयितुं दस्युमुपागात्। स दस्युस्तम्रा अवर्षनेन ग्लापयित्रीर्मिहो वृष्टीः प्रावपत्। व्यनाशयदित्यर्थः। तमांसि॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः