मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७३, ऋक् ६

संहिता

सना॑माना चिद्ध्वसयो॒ न्य॑स्मा॒ अवा॑ह॒न्निन्द्र॑ उ॒षसो॒ यथानः॑ ।
ऋ॒ष्वैर॑गच्छ॒ः सखि॑भि॒र्निका॑मैः सा॒कं प्र॑ति॒ष्ठा हृद्या॑ जघन्थ ॥

पदपाठः

सऽना॑माना । चि॒त् । ध्व॒स॒यः॒ । नि । अ॒स्मै॒ । अव॑ । अ॒ह॒न् । इन्द्रः॑ । उ॒षसः॑ । यथा॑ । अनः॑ ।
ऋ॒ष्वैः । अ॒ग॒च्छः॒ । सखि॑ऽभिः । निऽका॑मैः । सा॒कम् । प्र॒ति॒ऽस्था । हृद्या॑ । ज॒घ॒न्थ॒ ॥

सायणभाष्यम्

अयमिन्द्रो वृत्रं हन्तुं सनामाना चित् समाननामानौ नि ध्व सयः। न्यगमयत्। अथेन्द्रस्तं वृत्रमवाहन्। अवहतवान्। यथोषसोऽनः शकटमवनाशितवान् तद्वत्। अथ प्रत्यक्षॆणोच्यते। हे इन्द्र त्वमृष्वैर्दीप्तैर्महद्भिर्वा निकामैर्नितरां वृत्रवधं कामयमानैः सछिभिर्मरुद्भिः साकं वृत्रं हन्तुमगच्छः। आगत्य च प्रतिष्ठा प्रतिष्ठानानि शरीराणि हृद्या हृद्यानि रमणीयानि जघन्थ। हतवानसि। हन्तेस्थल्युपदेशेऽत्वत इतीट् प्रतिषेधः॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः