मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७३, ऋक् ८

संहिता

त्वमे॒तानि॑ पप्रिषे॒ वि नामेशा॑न इन्द्र दधिषे॒ गभ॑स्तौ ।
अनु॑ त्वा दे॒वाः शव॑सा मदन्त्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ ॥

पदपाठः

त्वम् । ए॒तानि॑ । प॒प्रि॒षे॒ । वि । नाम॑ । ईशा॑नः । इ॒न्द्र॒ । द॒धि॒षे॒ । गभ॑स्तौ ।
अनु॑ । त्वा॒ । दे॒वाः । शव॑सा । म॒द॒न्ति॒ । उ॒परि॑ऽबुध्नान् । व॒निनः॑ । च॒क॒र्थ॒ ॥

सायणभाष्यम्

हे इन्द्र त्वमेतानि नाम नामानि नामकान्युदकानि वि पप्रिषे। विपूरयसि हे इन्द्र ईशानः सर्वस्येश्वरस्त्वं गभस्तौ हस्ते दधिषे धारयसि वज्रं धनं वा। किञ्च त्वा त्वां शवसा बलेनोपेतं देवाः सर्वेऽनु मदन्ति। अनुष्टुवन्ति। स त्वं वनिन उदकवतो मेघान्रश्मीन्वोपरिबुध्नानुपरिमूलानधोमुखांश्च कर्थ। कृतवानसि॥।८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः