मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७३, ऋक् ९

संहिता

च॒क्रं यद॑स्या॒प्स्वा निष॑त्तमु॒तो तद॑स्मै॒ मध्विच्च॑च्छद्यात् ।
पृ॒थि॒व्यामति॑षितं॒ यदूध॒ः पयो॒ गोष्वद॑धा॒ ओष॑धीषु ॥

पदपाठः

च॒क्रम् । यत् । अ॒स्य॒ । अ॒प्ऽसु । आ । निऽस॑त्तम् । उ॒तो इति॑ । तत् । अ॒स्मै॒ । मधु॑ । इत् । च॒च्छ॒द्या॒त् ।
पृ॒थि॒व्याम् । अति॑ऽसितम् । यत् । ऊधः॑ । पयः॑ । गोषु॑ । अद॑धाः । ओष॑धीषु ॥

सायणभाष्यम्

अश्येन्द्रस्य चक्रमायुधं यदप्सु अन्तरिक्षे निषण्णं उतो अपि च तदायुध मस्मा इन्द्राय मधु च्च्छद्यात् वशं नयति। यत्पृथिव्यामतिषितं निमित्तं ऊधः ऊधसो मेघात् तदुदकं पयः गोष्वोषधीशु चादधा इति॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः