मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७३, ऋक् ११

संहिता

वयः॑ सुप॒र्णा उप॑ सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः ।
अप॑ ध्वा॒न्तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य१॒॑स्मान्नि॒धये॑व ब॒द्धान् ॥

पदपाठः

वयः॑ । सु॒ऽप॒र्णाः । उप॑ । से॒दुः॒ । इन्द्र॑म् । प्रि॒यऽमे॑धाः । ऋष॑यः । नाध॑मानाः ।
अप॑ । ध्वा॒न्तम् । ऊ॒र्णु॒हि । पू॒र्धि । चक्षुः॑ । मु॒मु॒ग्धि । अ॒स्मान् । नि॒धया॑ऽइव । ब॒द्धान् ॥

सायणभाष्यम्

वयो गन्तारः सुपर्णाः सुपतना आदित्यरश्मय इन्द्रमुपसेदुः। उपसन्ना अभवन्। कीदृशाः। प्रियमेधाः प्रिययज्ञा ऋषयो द्रष्टारो नाधमानाः प्रज्ञां याचमानाः। याचनप्रकार उच्यते। हे इन्द्र ध्वान्तमन्धकारमपोर्णुहि। परिहत। पूर्धि पूरय च चक्षुस्तेजः। मुमुग्धि मोचय चास्मान् निधयेव बद्धान्। निधा पाश्या भवति। पाश्या पाशसमूहः। पाशसमूहेन बद्धान्यथा मुञ्चन्ति तद्वत्। अत्र वयो वेर्बहुवचनमित्यादि निरुक्तं द्रष्टव्यम्। नि. ४-३॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः