मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७४, ऋक् ४

संहिता

आ तत्त॑ इन्द्रा॒यवः॑ पनन्ता॒भि य ऊ॒र्वं गोम॑न्तं॒ तितृ॑त्सान् ।
स॒कृ॒त्स्वं१॒॑ ये पु॑रुपु॒त्रां म॒हीं स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ॥

पदपाठः

आ । तत् । ते॒ । इ॒न्द्र॒ । आ॒यवः॑ । प॒न॒न्त॒ । अ॒भि । ये । ऊ॒र्वम् । गोऽम॑न्तम् । तितृ॑त्सान् ।
स॒कृ॒त्ऽस्व॑म् । ये । पु॒रु॒ऽपु॒त्राम् । म॒हीम् । स॒हस्र॑ऽधाराम् । बृ॒ह॒तीम् । दुधु॑क्षन् ॥

सायणभाष्यम्

हे इन्द्र ते तवायवो मनुष्या अङ्गिरसस्तत्तदा पनन्त। आ सर्वतः पनन्त। स्तूयन्ते। येऽङ्गिरसो गोमन्तमुर्वं सङ्घं पणिभिरपहृतं प्राप्तं तितृत्सान् हिंसितुमैच्छ्न्। तिदेर्जोसार्त्जसुअ समम्तसुअ ;एटुआडागमः। यद्योगादनिघातः। अभ्यस्तस्वरः। ये चाङ्गिरसः सकृत्स्वम् । या सकृत्सूते सा सकृत्सूः। तां सकृत्प्रजातां पुरुपुत्रां बह्वोषधिवनस्पतिरूपपुत्रां सहस्रधारां बहुलकामानामुत्पादयित्रीं बृहतीं विस्तृतां महीं भूमिम् । यद्वा। पुरुपुत्रां बह्वोषधि वनस्पतिरूपपुत्रां सहस्रधारां बहुकामवर्षित्रीं महीं महतीं पूज्यां वा बृहतीं परिमाणरहितां दिवम् । दुधुक्षन् दुदुहुः। ते पनन्तेति सम्बन्धः सकृद्धद्यौरजायतेत्याद्युक्तम्। ऋ. ६-४८-२२॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः