मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७४, ऋक् ५

संहिता

शची॑व॒ इन्द्र॒मव॑से कृणुध्व॒मना॑नतं द॒मय॑न्तं पृत॒न्यून् ।
ऋ॒भु॒क्षणं॑ म॒घवा॑नं सुवृ॒क्तिं भर्ता॒ यो वज्रं॒ नर्यं॑ पुरु॒क्षुः ॥

पदपाठः

शची॑ऽवः । इन्द्र॑म् । अव॑से । कृ॒णु॒ध्व॒म् । अना॑नतम् । द॒मय॑न्तम् । पृ॒त॒न्यून् ।
ऋ॒भु॒क्षण॑म् । म॒घऽवा॑नम् । सु॒ऽवृ॒क्तिम् । भर्ता॑ । यः । वज्र॑म् । नर्य॑म् । पु॒रु॒ऽक्षुः ॥

सायणभाष्यम्

हे शचीवः कर्मवन्तो यजमानाः। व्यत्ययेनैकवचनम्। इन्द्रमवसे रक्षणाय कृणुध्वम्। कुरुध्वम्। कीदृशमिन्द्रम्। अनानतं कदाचिदपि परेषामनवनतं पृतन्यून्पृतना इच्छतः शत्रून्दमयन्तं वशं प्रापयन्तं ऋभुक्षनं महान्तं मघवानं धनवन्तं सुवृक्तिं सुष्तुतिम् । यः पुरुक्शुर्बहुशब्द इन्द्रो नर्यं नरेभ्यो हितम्। असुरविघातित्वात्। तादृशं वज्रं भर्ता बिभर्ति तमिन्द्रमवसे कृणुध्वमिति॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः