मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७५, ऋक् १

संहिता

प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो॑चाति॒ सद॑ने वि॒वस्व॑तः ।
प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिन्धु॒रोज॑सा ॥

पदपाठः

प्र । सु । वः॒ । आ॒पः॒ । म॒हि॒मान॑म् । उ॒त्ऽत॒मम् । का॒रुः । वो॒चा॒ति॒ । सद॑ने । वि॒वस्व॑तः ।
प्र । स॒प्तऽस॑प्त । त्रे॒धा । हि । च॒क्र॒मुः । प्र । सृत्व॑रीणाम् । अति॑ । सिन्धुः॑ । ओज॑सा ॥

सायणभाष्यम्

प्र सु व इति नवर्चं सप्तमं सूक्तम्। प्रियमेधपुत्रस्य सुन्धुक्षित आर्षम् जागतं नदीदेवताकम्। तथा चानुक्रान्तम्। प्र सु नव सिन्धुक्षित्प्रैयमेधो नदीस्तुतिर्जागतं त्विति। गतो विनियोगः॥

हे आपः वो युष्माकम् महिमानं महत्त्वं स्तोत्रमत्तममुत्कृष्टतमं कारुः स्तोता सिन्धुक्षिदहं विवस्वतः परिचरणवतो यजमानस्य सदने यज्ञगृहे सु सुष्ठु प्र वोचाति। प्रब्रवीमि। ता नद्यः सप्तसप्त भूत्वा त्रेधा पृथिव्यामन्तरिक्षे दिवि चेति त्रिधा त्रिः प्रकारम् चक्रमुः। प्रावहन्। सृत्वरीणामासां मध्ये सिन्धुरेतन्नामिका नद्योजसा स्वबलेनाति सर्वा अपि नदीरतिक्रम्यप्रवहतीति शेषः॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः