मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७५, ऋक् २

संहिता

प्र ते॑ऽरद॒द्वरु॑णो॒ यात॑वे प॒थः सिन्धो॒ यद्वाजाँ॑ अ॒भ्यद्र॑व॒स्त्वम् ।
भूम्या॒ अधि॑ प्र॒वता॑ यासि॒ सानु॑ना॒ यदे॑षा॒मग्रं॒ जग॑तामिर॒ज्यसि॑ ॥

पदपाठः

प्र । ते॒ । अ॒र॒द॒त् । वरु॑णः । यात॑वे । प॒थः । सिन्धो॒ इति॑ । यत् । वाजा॑न् । अ॒भि । अद्र॑वः । त्वम् ।
भूम्याः॑ । अधि॑ । प्र॒ऽवता॑ । या॒सि॒ । सानु॑ना । यत् । ए॒षा॒म् । अग्र॑म् । जग॑ताम् । इ॒र॒ज्यसि॑ ॥

सायणभाष्यम्

हे सिन्धो देवि ते तव यातवे गमनाय वरुणो देवः पथो मार्गान्प्रारदत्। प्राचीनं व्यलिखत्। सा हि प्राक् प्रवहति। अथवा प्रकृष्टमितरनदीभ्योऽप्यत्यन्तं विस्तृतं व्यदारयत्। यद्यस्माद्दे सिन्धो वाजानन्नान्यभिलक्ष्य त्वमभ्यद्रवः अभ्यगच्छः। किञ्च त्वं भूम्यां अध्युपरि सानुना समुच्छ्रितेन प्रवतामार्गेण यासि। गच्छसि। सिन्धुः खलु पर्वतान्विभिद्य गता। यद्येन समुच्छ्रितेन मार्गेन गच्छन्ती त्वमेषां सर्वेषां जगतां जङ्गमानां प्राणिनामग्रं प्रत्यक्षमिरज्यसि ईशिषे॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः