मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७५, ऋक् ३

संहिता

दि॒वि स्व॒नो य॑तते॒ भूम्यो॒पर्य॑न॒न्तं शुष्म॒मुदि॑यर्ति भा॒नुना॑ ।
अ॒भ्रादि॑व॒ प्र स्त॑नयन्ति वृ॒ष्टय॒ः सिन्धु॒र्यदेति॑ वृष॒भो न रोरु॑वत् ॥

पदपाठः

दि॒वि । स्व॒नः । य॒त॒ते॒ । भूम्या॑ । उ॒परि॑ । अ॒न॒न्तम् । शुष्म॑म् । उत् । इ॒य॒र्ति॒ । भा॒नुना॑ ।
अ॒भ्रात्ऽइ॑व । प्र । स्त॒न॒य॒न्ति॒ । वृ॒ष्टयः॑ । सिन्धुः॑ । यत् । एति॑ । वृ॒ष॒भः । न । रोरु॑वत् ॥

सायणभाष्यम्

भूम्योपरि भूमेरुपरि प्रवर्तमानः स्वनो दिवि यतते। गच्छ्ति। दिवं प्राप्नोति। सेयं सिन्धुरनन्तमपर्यन्तं शुष्मं वेगं भानुना दीप्तेनोर्मिणोदियर्ति। उद्गमयति।अभ्रादिवान्तरिक्षाद्यथा व्रुष्टयः प्र स्तनयन्ति तद्वदस्याह् शब्दाः प्रादुर्भवन्ति। यद्यदा सिन्धुरियं रोरुवद्भृशं शब्दयन् वृषभो न वृषभ इवैति गच्छति तदैवं भवति॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः