मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७५, ऋक् ५

संहिता

इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या ।
अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या ॥

पदपाठः

इ॒मम् । मे॒ । ग॒ङ्गे॒ । य॒मु॒ने॒ । स॒र॒स्व॒ति॒ । शुतु॑द्रि । स्तोम॑म् । स॒च॒त॒ । परु॑ष्णि । आ ।
अ॒सि॒क्न्या । म॒रु॒त्ऽवृ॒धे॒ । वि॒तस्त॑या । आर्जी॑कीये । शृ॒णु॒हि । आ । सु॒ऽसोम॑या ॥

सायणभाष्यम्

अत्र प्रधानभूताः सप्त नद्यस्तदवयवभूता नव्यस्तिस्रः स्तूयन्ते। हे गंगे हे यमुने हे सरस्वति हे शुतुद्रि हे परुष्णि। हे असिक्न्यावयवभूतया सहिते मरुद्वृधे हे वितस्तया सुषोमया च सहित अर्जीकीये त्वं च एवं सप्त नद्यः यूयम् मे स्तोमं स्तोत्रमस्मदीयमा सचत। असेवध्वम् । शृणुहि। शृणुत। अर्जीकीयाया वितस्तया सुषोमया च साहित्यं निरुक्त उक्तम्। वितस्तया चार्जीकीय आ शृणुहि सुषोमया चेति। अत्र गंगा गमनादित्यादि निरुक्तं द्रष्टव्यम् ।९-२६॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः