मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७५, ऋक् ६

संहिता

तृ॒ष्टाम॑या प्रथ॒मं यात॑वे स॒जूः सु॒सर्त्वा॑ र॒सया॑ श्वे॒त्या त्या ।
त्वं सि॑न्धो॒ कुभ॑या गोम॒तीं क्रुमुं॑ मेह॒त्न्वा स॒रथं॒ याभि॒रीय॑से ॥

पदपाठः

तृ॒ष्टऽअ॑मया । प्र॒थ॒मम् । यात॑वे । स॒ऽजूः । सु॒ऽसर्त्वा॑ । र॒सया॑ । श्वे॒त्या । त्या ।
त्वम् । सि॒न्धो॒ इति॑ । कुभ॑या । गो॒ऽम॒तीम् । क्रुमु॑म् । मे॒ह॒त्न्वा । स॒ऽरथ॑म् । याभिः॑ । ईय॑से ॥

सायणभाष्यम्

हे सिन्धो त्वं क्रुमुं क्रमणशीलां गोमतीं नदीं यातवे प्रतियातुं पर्वतादवरूढा प्रथमं तृष्तामया नद्या सजूः सङ्गतासि। पश्चात्सुसर्त्वा रसया श्वेत्या त्या कुभया मेहत्न्वा च सह सजूर्भव याभिस्त्वं सरथम् समानं रथमारुह्येयसे। गच्छसि॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः