मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७५, ऋक् ७

संहिता

ऋजी॒त्येनी॒ रुश॑ती महि॒त्वा परि॒ ज्रयां॑सि भरते॒ रजां॑सि ।
अद॑ब्धा॒ सिन्धु॑र॒पसा॑म॒पस्त॒माश्वा॒ न चि॒त्रा वपु॑षीव दर्श॒ता ॥

पदपाठः

ऋजी॑ती । एनी॑ । रुश॑ती । म॒हि॒ऽत्वा । परि॑ । ज्रयां॑सि । भ॒र॒ते॒ । रजां॑सि ।
अद॑ब्धा । सिन्धुः॑ । अ॒पसा॑म् । अ॒पःऽत॑मा । अश्वा॑ । न । चि॒त्रा । वपु॑षीऽइव । द॒र्श॒ता ॥

सायणभाष्यम्

ऋजीत्यृजगामिन्येनी श्वेतवर्णा रुशती दीप्यमाना सिन्धुर्ज्रयांसि वेगवन्ति रजांस्युदकानि परि भरते। प्रभरति। तादृश्यदब्धाहिंसिता सिम्धुरपसां कर्मवतीनां मध्येऽपस्तमा वेगाख्यकर्मवती भवति। अश्वा न वडवेव चित्रा चायनीया वपुषी वपुष्मती योषिदिव दर्शता दर्शनीया भवति॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः