मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७५, ऋक् ८

संहिता

स्वश्वा॒ सिन्धु॑ः सु॒रथा॑ सु॒वासा॑ हिर॒ण्ययी॒ सुकृ॑ता वा॒जिनी॑वती ।
ऊर्णा॑वती युव॒तिः सी॒लमा॑वत्यु॒ताधि॑ वस्ते सु॒भगा॑ मधु॒वृध॑म् ॥

पदपाठः

सु॒ऽअश्वा॑ । सिन्धुः॑ । सु॒ऽरथा॑ । सु॒ऽवासाः॑ । हि॒र॒ण्ययी॑ । सुऽकृ॑ता । वा॒जिनी॑ऽवती ।
ऊर्णा॑ऽवती । यु॒व॒तिः । सी॒लमा॑ऽवती । उ॒त । अधि॑ । व॒स्ते॒ । सु॒ऽभगा॑ । म॒धु॒ऽवृध॑म् ॥

सायणभाष्यम्

सेयं सिन्धुः स्वश्व्वा शोभनाश्वोपेता सुरथा शोभनरथा सुवासाः शोभनवस्त्रोपेता हिरण्ययी हिरण्मयाभारणा सुकृता वाजिनीवत्यन्नवत्यूर्णावती। तस्याः समीपदेशे हि सन्त्यूर्णा यासां रोमभिः कम्बलाः क्रियन्ते। युवतिर्नित्य तरुणी सर्वदाहीनोदका सीलमावती। सीराणि ययौषध्या रज्जुभूतया बध्यन्ते सा सीलमेति निगद्यते कृषीवल्यैः। तादृगोषध्युपेता। उतापि च सुभगा सिन्धुर्मधुवृधं मधुवर्धकं निर्गुण्ड्यादिकमधि वस्ते। आच्छादयति। तस्यास्तीरे निर्गुण्ड्यादीनि बहूनि सन्ति॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः