मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७६, ऋक् १

संहिता

आ व॑ ऋञ्जस ऊ॒र्जां व्यु॑ष्टि॒ष्विन्द्रं॑ म॒रुतो॒ रोद॑सी अनक्तन ।
उ॒भे यथा॑ नो॒ अह॑नी सचा॒भुवा॒ सदः॑सदो वरिव॒स्यात॑ उ॒द्भिदा॑ ॥

पदपाठः

आ । वः॒ । ऋ॒ञ्ज॒से॒ । ऊ॒र्जाम् । विऽउ॑ष्टिषु । इन्द्र॑म् । म॒रुतः॑ । रोद॑सी॒ इति॑ । अ॒न॒क्त॒न॒ ।
उ॒भे इति॑ । यथा॑ । नः॒ । अह॑नी॒ इति॑ । स॒चा॒ऽभुवा॑ । सदः॑ऽसदः । व॒रि॒व॒स्यातः॑ । उ॒त्ऽभिदा॑ ॥

सायणभाष्यम्

आ व इत्यष्टर्चमष्टमं सूक्तम्। इरावतः पुत्रस्य सर्पजातेर्जरत्कर्णनाम आर्षम्। जागतम्। सोमाभिषवार्था ये ग्रावाणस्तद्देवत्यम्। तथा चानुक्रान्तम्। आ वोऽष्टौ सर्प ऐरावतो जरत्कर्णो ग्राव्णोऽस्तौदिति। ग्रावस्तोत्र एतत्सूक्तम्। सूत्रितं च। आ व ऋञ्जसे प्र वो ग्रावाण इति सूक्तयोरन्तरोपरिष्टात्पुरस्ताद्वा। आ. ५-१२। इति॥

हे ग्रावाणः वो युष्मानूर्जां सारभूतानामन्नवतीनां वोषसां व्युष्टिषु विभातेषु सत्स्वा ऋञ्जसे। आप्रसाधयामि। यूयम् सोमेनेन्द्रं मरुतो रोदसी द्यावापृथिव्यौ चानक्तन। व्यञ्जयत। नोऽस्मानुभे सचाभुवा सहोत्पन्ने अहनी द्यावापृथिव्यौ सदः सदः सर्वेषु याग गृहेषु वरिवस्यातः। परिचरतः। उद्भिदोद्भेदकेन पूरयतामिति॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः