मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७६, ऋक् ६

संहिता

भु॒रन्तु॑ नो य॒शस॒ः सोत्वन्ध॑सो॒ ग्रावा॑णो वा॒चा दि॒विता॑ दि॒वित्म॑ता ।
नरो॒ यत्र॑ दुह॒ते काम्यं॒ मध्वा॑घो॒षय॑न्तो अ॒भितो॑ मिथ॒स्तुरः॑ ॥

पदपाठः

भु॒रन्तु॑ । नः॒ । य॒शसः॑ । सोतु॑ । अन्ध॑सः । ग्रावा॑णः । वा॒चा । दि॒विता॑ । दि॒वित्म॑ता ।
नरः॑ । यत्र॑ । दु॒ह॒ते । काम्य॑म् । मधु॑ । आ॒ऽघो॒षय॑न्तः । अ॒भितः॑ । मि॒थः॒ऽतुरः॑ ॥

सायणभाष्यम्

यशसो यशस्विनो ग्रावाणो नोऽस्मभ्यं सोतु सुतमन्धसः सोमस्य रसम् भुरन्तु। भरन्तु। सम्पादयन्तु। उकारश्छान्दसः। किञ्च दिवित्मता दीप्तिमत्या लिङ्गव्यत्ययः। वाचा स्तुतिवाचा दिविता दिवितायाम् दीप्तिमत्तायां वास्मान्कुर्वन्तु। सोमयागे स्थापयन्त्वित्यर्थः। क्वैषा दीप्तिमत्तेति उच्यते। नरो नेतार ऋत्विजो यत्र यागे काम्यं कमनीयं मधु सोमरसं दुहते। किं कुर्वन्तः। अघोषयन्तः सर्वतोऽभिषवशब्दं स्तोत्रशस्त्रादिरूपं वा शब्दं कुर्वन्तः। अभितः सर्वतो मिथस्तुरस्त्वरमाणाः। सा दीप्तिमत्तेति॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः