मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७६, ऋक् ८

संहिता

ए॒ते न॑र॒ः स्वप॑सो अभूतन॒ य इन्द्रा॑य सुनु॒थ सोम॑मद्रयः ।
वा॒मंवा॑मं वो दि॒व्याय॒ धाम्ने॒ वसु॑वसु व॒ः पार्थि॑वाय सुन्व॒ते ॥

पदपाठः

ए॒ते । न॒रः॒ । सु॒ऽअप॑सः । अ॒भू॒त॒न॒ । ये । इन्द्रा॑य । सु॒नु॒थ । सोम॑म् । अ॒द्र॒यः॒ ।
वा॒मम्ऽवा॑मम् । वः॒ । दि॒व्याय॑ । धाम्ने॑ । वसु॑ऽवसु । वः॒ । पार्थि॑वाय । सु॒न्व॒ते ॥

सायणभाष्यम्

हे नरो नेतारो हे अद्रयः एते यूयं स्वपसोऽभूतन। शोभनाभिसवकर्माणो भवत। ये यूयमिन्द्राय सोमं सुनुथ वो यूयं वामंवामं यद्यद्वननीयं धनमस्ति तत्तद्दिव्याय धाम्ने तेजसे कुरुत। तथा वसुवसु यद्यद्वासयोग्यं धनमस्ति तद्वो यूयं पार्थिवाय सुन्वते यजमानाय कुरुत॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः