मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७७, ऋक् ३

संहिता

प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा॒ त्मना॑ रिरि॒च्रे अ॒भ्रान्न सूर्य॑ः ।
पाज॑स्वन्तो॒ न वी॒राः प॑न॒स्यवो॑ रि॒शाद॑सो॒ न मर्या॑ अ॒भिद्य॑वः ॥

पदपाठः

प्र । ये । दि॒वः । पृ॒थि॒व्याः । न । ब॒र्हणा॑ । त्मना॑ । रि॒रि॒च्रे । अ॒भ्रात् । न । सूर्यः॑ ।
पाज॑स्वन्तः । न । वी॒राः । प॒न॒स्यवः॑ । रि॒शाद॑सः । न । मर्याः॑ । अ॒भिऽद्य॑वः ॥

सायणभाष्यम्

ये मरुतो दिवः पृथिव्या न पृथिव्याश्च। नेति चार्थे। बर्हना महत्त्वेन त्मनात्मनैव रिरिच्रे अतिरिक्ता अभवन्स्वशरीरेण अभ्रान्नाभ्रादिव सूर्यः। किञ्च पाजस्वन्तो न वीरा बलवन्तो वीरा इव पनस्यवः स्तुतिकामा भवन्ति। किञ्च रिशादसो न मर्या रिशतामसितारो मनुष्या इवाभिद्यवोऽभिगतदीप्तयो भवन्ति॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०