मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७७, ऋक् ५

संहिता

यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॒र्ज्योति॑ष्मन्तो॒ न भा॒सा व्यु॑ष्टिषु ।
श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुषः॑ ॥

पदपाठः

यू॒यम् । धूः॒ऽसु । प्र॒ऽयुजः॑ । न । र॒श्मिऽभिः॑ । ज्योति॑ष्मन्तः । न । भा॒सा । विऽउ॑ष्टिषु ।
श्ये॒नासः॑ । न । स्वऽय॑शसः । रि॒शाद॑सः । प्र॒वासः॑ । न । प्रऽसि॑तासः । प॒रि॒ऽप्रुषः॑ ॥

सायणभाष्यम्

हे मरुतः यूयं धूर्षु रथसम्बन्धिनीषु रश्मिभिर्योक्त्रैः प्रयुजः प्रयुक्ता बद्धा अश्वा इव परिप्रुषः परितो गन्तारः स्थ। तथा ज्योतिष्मन्तो न तेजोवन्त आदित्यादय इव भासा युक्ता भवथ ब्युष्टिषूषह् सूदितासु। किञ्च श्येनासो न श्येना इव स्वयशसः स्वायत्तयशसः ते यथा रिशादसो रिशतामसितारस्तद्वद्रितादसः स्वायत्तयशसश्च। किञ्च प्रवासो न प्रवासिन इव पथिका इव प्रसितासः प्रसिद्धयानाः। उक्तरूपा मरुतः परिपुर्षः परितो गन्तारो भवथ॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०