मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७७, ऋक् ६

संहिता

प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यं म॒हः सं॒वर॑णस्य॒ वस्व॑ः ।
वि॒दा॒नासो॑ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योत ॥

पदपाठः

प्र । यत् । वह॑ध्वे । म॒रु॒तः॒ । प॒रा॒कात् । यू॒यम् । म॒हः । स॒म्ऽवर॑णस्य । वस्वः॑ ।
वि॒दा॒नासः॑ । व॒स॒वः॒ । राध्य॑स्य । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒त॒ ॥

सायणभाष्यम्

हे मरुतः यूयं यद्यदा पराकाद्यत्यन्तम् दूरदेशाद्वहध्वे आगच्छथ तदानीं महो महत्संवरणस्य संवरणीयं राध्यस्य संराधनीयं वस्वो वसु धनं विदानासः प्रयच्छन्तो हे वसवः यूयमाराच्छिद्दूरादेव युयोत। पृथक्कुरुत। कानिति उच्यते। द्वेषो द्वॆष्टॄन् सनुतरन्तर्हितान्। निगूढानित्यर्थः। सनुतरित्यन्तर्हितनाम॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११